नृसिंहकवचं वक्ष्ये
प्रह्लादेनोदितं पुरा ।
सर्वरक्षाकरं पुण्यं
सर्वोपद्रवनाशनम् ॥ १॥
सर्व सम्पत्करं चैव
स्वर्गमोक्षप्रदायकम् ।
ध्यात्वा नृसिंहं देवेशं
हेमसिंहासनस्थितम् ॥ २॥
विवृतास्यं त्रिनयनं
शरदिन्दुसमप्रभम् ।
लक्ष्म्यालिङ्गितवामाङ्गं
विभूतिभिरुपाश्रितम् ॥ ३॥
चतुर्भुजं कोमलाङ्गं
स्वर्णकुण्डलशोभितम् ।
सरोजशोभितोरस्कं
रत्नकेयूरमुद्रितम् ॥ ४॥
तप्तकाञ्चनसंकाशं
पीतनिर्मलवाससम् ।
इन्द्रादिसुरमौलिस्थ
स्फुरन्माणिक्यदीप्तिभिः ॥ ५॥
विराजितपदद्वन्द्वं
शङ्खचक्रादि हेतिभिः ।
गरुत्मता च विनयात्
स्तूयमानं मुदान्वितम् ॥ ६॥
स्वहृत्कमलसंवासं
कृत्वा तु कवचं पठेत् ।
नृसिंहो मे शिरः पातु
लोकरक्षार्थसम्भवः ॥ ७॥
सर्वगोऽपि स्तम्भवासः
भालं मे रक्षतु ध्वनिम् ।
नृसिंहो मे दृशौ पातु
सोमसूर्याग्निलोचनः ॥ ८॥
स्मृतिं मे पातु
नृहरिर्मुनिवर्यस्तुतिप्रियः ।
नासं मे सिंहनासस्तु
मुखं लक्ष्मीमुखप्रियः ॥ ९॥
सर्वविद्याधिपः पातु
नृसिंहो रसनां मम ।
वक्त्रं पात्विन्दुवदनं
सदा प्रह्लादवन्दितः ॥ १०॥
नृसिंहः पातु मे कण्ठं
स्कन्धौ भूभरान्तकृत् ।
दिव्यास्त्रशोभितभुजो
नृसिंहः पातु मे भुजौ ॥ ११॥
करौ मे देववरदो
नृसिंहः पातु सर्वतः ।
हृदयं योगिसाध्यश्च
निवासं पातु मे हरिः ॥ १२॥
मध्यं पातु हिरण्याक्षवक्षः
कुक्षिविदारणः ।
नाभिं मे पातु नृहरिः
स्वनाभि ब्रह्मसंस्तुतः ॥ १३॥
ब्रह्माण्डकोटयः कट्यां
यस्यासौ पातु मे कटिम् ।
गुह्यं मे पातु गुह्यानां
मन्त्राणां गुह्यरूपदृक् ॥ १४॥
ऊरू मनोभवः पातु
जानुनी नररूपधृक् ।
जङ्घे पातु धराभारहर्ता योऽसौ नृकेसरी ॥ १५॥
सुरराज्यप्रदः पातु
पादौ मे नृहरीश्वरः ।
सहस्रशीर्षा पुरुषः पातु
मे सर्वशस्तनुम् ॥ १६॥
महोग्रः पूर्वतः पातु
महावीराग्रजोऽग्नितः ।
महाविष्णुर्दक्षिणे तु
महाज्वालस्तु नैरृतौ ॥ १७॥
पश्चिमे पातु सर्वेशो
दिशि मे सर्वतोमुखः ।
नृसिंहः पातु वायव्यां
सौम्यां भूषणविग्रहः ॥ १८॥
ईशान्यां पातु भद्रो
मे सर्वमङ्गलदायकः ।
संसारभयतः पातु
मृत्योर्मृत्युर्नृकेसरी ॥ १९॥
(फलश्रुतिः)
इदं नृसिंहकवचं
प्रह्लादमुखमण्डितम् ।
भक्तिमान् यः पठेन्नित्यं
सर्वपापैः प्रमुच्यते ॥ २०॥
पुत्रवान् धनवान् लोके
दीर्घायुरुपजायते ।
यं यं कामयते कामं तं
तं प्राप्नोत्यसंशयम् ॥ २१॥
सर्वत्र जयमाप्नोति
सर्वत्र विजयी भवेत् ।
भूम्यन्तरीक्षदिव्यानां
ग्रहाणां विनिवारणम् ॥ २२॥
वृश्चिकोरगसम्भूत
विषापहरणं परम् ।
ब्रह्मराक्षसयक्षाणां
दूरोत्सारणकारणम् ॥ २३॥
भूर्जे वा तालपत्रे वा
कवचं लिखितं शुभम् ।
करमूले धृतं येन
सिध्येयुः कर्मसिद्धयः ॥ २४॥
देवासुरमनुष्येषु स्वं
स्वमेव जयं लभेत् ।
एकसन्ध्यं त्रिसन्ध्यं वा
यः पठेन्नियतो नरः ॥ २५॥
सर्वमङ्गलमाङ्गल्यं
भुक्तिं मुक्तिं च विन्दति ।
द्वात्रिंशतिसहस्राणि पठेत्
शुद्धात्मनां नृणाम् ॥ २६॥
कवचस्यास्य मन्त्रस्य
मन्त्रसिद्धिः प्रजायते ।
अनेन मन्त्रराजेन कृत्वा
भस्माभिमन्त्रणम् ॥ २७॥
तिलकं विन्यसेद्यस्तु
तस्य ग्रहभयं हरेत् ।
त्रिवारं जपमानस्तु दत्तं
वार्यभिमन्त्र्य च ॥ २८॥
प्राशयेद्यो नरो मन्त्रं
नृसिंहध्यानमाचरेत् ।
तस्य रोगाः प्रणश्यन्ति ये
च स्युः कुक्षिसम्भवाः ॥ २९॥
किमत्र बहुनोक्तेन
नृसिंहसदृशो भवेत् ।
मनसा चिन्तितं यत्तु स
तच्चाप्नोत्यसंशयम् ॥ ३०॥
गर्जन्तं गर्जयन्तं निजभुजपटलं
स्फोटयन्तं हठन्तं
रूप्यन्तं तापयन्तं दिवि भुवि
दितिजं क्षेपयन्तं क्षिपन्तम् ।
क्रन्दन्तं रोषयन्तं दिशि
दिशि सततं संहरन्तं भरन्तं
वीक्षन्तं घूर्णयन्तं शरनिकर
शतैर्दिव्यसिंहं नमामि ॥ ३१॥
॥ इति श्रीब्रह्माण्डपुराणे श्रीप्रह्लादोक्तं
श्रीनृसिंहकवचं सम्पूर्णम् ॥
To Listen This Kavacham 👇